भारतीयसंस्कृतमहाकाव्येषु लोकमङ्गलस्य नैतिकसामाजिकस्वरूपम् : भारवेर् किरातार्जुनीयस्य माघस्य शिशुपालवधस्य च तुलनात्मकमध्ययनम्ID: 4018 Abstract :भारतीयसंस्कृतमहाकाव्यपरम्परा भारतीयसंस्कृतेः, नैतिकचिन्तनस्य, सामाजिकमूल्यानां तथा धर्मदर्शनस्य समृद्धं भाण्डारम् अस्ति। संस्कृतमहाकाव्यानि केवलं काव्यसौन्दर्यस्य, अलङ्काराणां तथा रसाभिव्यक्तेः माध्यमानि न सन्ति, अपितु मानवीयजीवनस्य आदर्शानां, सामाजिकदायित्वस्य, न्यायस्य, धर्मस्य तथा लोकमङ्गलस्य अपि महत्त्वपूर्णानि स्रोतांसि सन्ति। महाकविभारवेः किरातार्जुनीयम् तथा महाकविमाघस्य शिशुपालवधम् इति महाकाव्यद्वयं भारतीयनैतिकसामाजिकचिन्तनस्य विशिष्टं स्वरूपं प्रस्तुतयति। किरातार्जुनीयमहाकाव्ये अर्जुनस्य तपस्या, आत्मसंयमः, वीरता, कर्तव्यनिष्ठा तथा शिवस्य अनुग्रहः प्रमुखतया वर्णिताः सन्ति। शिशुपालवधमहाकाव्ये श्रीकृष्णस्य धर्मरक्षणम्, शिशुपालस्य अनुचिताचरणम्, राजधर्मः, न्यायः तथा सामाजिकमर्यादायाः महत्त्वं प्रतिपादितम् अस्ति। उभयोः महाकाव्ययोः कथानकानि महाभारतसम्बद्धानि सन्ति, किन्तु कविद्वयं तानि स्वकीयया काव्यदृष्ट्या, दार्शनिकचिन्तनेन तथा नैतिकमूल्याभिव्यक्त्या विशिष्टानि करोति। प्रस्तुतशोधपत्रस्य उद्देश्यं भारविमाघयोः महाकाव्येषु लोकमङ्गलस्य नैतिकं सामाजिकं च स्वरूपं विश्लेषयितुम्, उभयोः काव्ययोः साम्यवैषम्ययोः अध्ययनं कर्तुम्, तथा आधुनिकसमाजे तेषां विचाराणां प्रासङ्गिकतां निरूपयितुम् अस्ति। अस्य अध्ययनस्य निष्कर्षः अस्ति यत् लोकमङ्गलस्य मूलाधाराः धर्मः, न्यायः, आत्मसंयमः, विवेकः, कर्तव्यपालनम् तथा सामाजिकउत्तरदायित्वम् इति। |
Published:02-11-2026 Issue:Vol. 26 No. 11 (2026) Page Nos:49-60 Section:Articles License:This work is licensed under a Creative Commons Attribution-NonCommercial-NoDerivatives 4.0 International License. How to Cite |